NCERT Solutions for Class 9 Sanskrit Chapter 7 सिकतासेतुः
प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) कः बाल्ये विद्यां न अधीतवान्?
(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?
(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
(ङ) पुरुषः सिकताभिः किं करोति?
उत्तर:
(क) तपोदत्तः
(ख) तपसा/तपस्यया/तपोभिः
(ग) श्रीरामः
(घ) गृहम्
(ङ) सेतुनिर्माणम्
प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गत:?
उत्तर:
(क) अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितः अभवत्।
(ख) नरः केवलं परिधानैः अलङ्कारैः च भूषितः अपि विद्यां विना कुत्रापि न शोभते इति विचार्य सर्वैः निन्दितः अनधीतः तपोदत्तः विद्याम् अवाप्तुम् प्रवृतः अभवत्।
(ग) सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं पुरुषं दृष्ट्वा तपोदत्तः अहसत्।
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः एव सेतुनिर्माण-प्रयासः कथितः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलम् गतः।
प्रश्न: 3.
भिन्नवर्गीयं पदं चिनुत यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।
(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।
उत्तर:
(क) चिन्तय
(ख) करिष्यामि
(ग) दुर्बुद्धिः
प्रश्न: 4.
(क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
(i) अलमलं तव श्रमेण।
(ii) न अहं सोपानमा रट्टमधिरोढुं विश्वसिमि।
(iii) चिन्तितं भवता न वा।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तर:
(i) पुरुषाय
(ii) पुरुषाय
(iii) पुरुषाय
(iv) तपोदत्ताय
(v) तपोदत्ताय
(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?
कथनानि
(i) हा विधे! किमिदं मया कृतम्?
(ii) भो महाशय! किमिदं विधीयते।
(iii) भोस्तपस्विन्! कथं माम् अवरोधं करोषि।
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्?
(v) नाहं जाने कोऽस्ति भवान्?
उत्तर:
कः — कम्
(i) तपोदत्तः — विधिम्
(ii) तपोदत्तः — पुरुषम्
(iii) पुरुषः — तपोदत्तम्
(iv) तपोदत्तः — पुरुषम्
(v) तपोदत्तः — पुरुषम्
प्रश्नः 5.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
(ग) पुरुषः नद्यां सिकताभिः. सेतुं निर्मातुं प्रयतते।
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
प्रश्ना:-
(क) तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽस्ति?
(ख) कः कुटुम्बिभिः मित्रैः गर्हितः अभवत्?
(ग) पुरुषः कुत्र/कस्याम् सिकताभिः सेतुं निर्मातुं प्रयतते?
(घ) तपोदत्तः किम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
(ङ) तपोदत्तः किमर्थम् गुरुकुलम् अगच्छत्?
(च) कुत्र गत्वैव विद्याभ्यासः करणीयः?
प्रश्नः 6.
उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत
विग्रहपदानि — समस्तपदानि
यथा- संकल्पस्य सातत्येन — संकल्पसातत्येन
(क) अक्षराणां ज्ञानम्
(ख) सिकतायाः सेतुः
(ग) पितुः चरणैः
(घ) गुरोः गृहम्
(ङ) विद्यायाः अभ्यासः
उत्तर:
विग्रहपदानि — समस्तपदानि
(क) अक्षराणां ज्ञानम् — अक्षरज्ञानम्
(ख) सिकतायाः सेतुः — सिकतासेतुः
(ग) पितुः चरणैः — पितृचरणैः
(घ) गुरोः गृहम् — गुरुगृहम्
(ङ) विद्यायाः अभ्यासः — विद्याभ्यासः
(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत
समस्तपदानि — विग्रहः
यथा- नयनयुगलम् — नयनयोः युगलम्
(क) जलप्रवाहे — ………….
(ख) तपश्चर्यया — ………….
(ग) जलोच्छलनध्वनिः — ………….
(घ) सेतुनिर्माणप्रयासः — ………….
उत्तर:
समस्तपदानि — विग्रहः
(क) जलप्रवाहे — जलस्य प्रवाहे
(ख) तपश्चर्यया — तपसः चर्यया
(ग) जलोच्छलनध्वनिः — जलस्य उच्छलनध्वनिः
(घ) सेतुनिर्माणप्रयासः — सेतोः निर्माणप्रयासः
प्रश्न: 7.
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत
(क) यथा- अलं चिन्तया। (‘अलम्’ योगे तृतीया)
(i) …………. ………… …………… ………. (भय)
(ii) …………. ………… …………… ………. (कोलाहल)
उत्तर:
(i) अलम् भयेन
(ii) अलं कोलाहलेन
(ख) यथा- माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया)
(i) …………. ………… …………… ………. (गृह)
(ii) …………. ………… …………… ………. (पर्वत)
उत्तर:
(i) गृहम् अनु उद्यानम् अस्ति।
(ii) पर्वतम् अनु ग्रामः अस्ति।
(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (‘विना’ योगे द्वितीया)
(i) …………. ………… …………… ………. (परिश्रम)
(ii) …………. ………… …………… ………. (अभ्यास)
उत्तर:
(i) परिश्रमम् विना कार्यं न सिद्धयति।
(ii) अभ्यासं विना वैराग्यम् न प्राप्नोति।
(घ) यथा- सन्ध्यां यावत् गृहमुपैति। (‘यावत्’ योगे द्वितीया)
(i) …………. ………… …………… ………. (मास)
(ii) …………. ………… …………… ………. (वर्ष)
उत्तर:
(i) मासं यावत् वर्षा न भवति।
(ii) वर्षं यावत् अतिथिः न गच्छति।
NCERT Solutions for Class 9 Sanskrit Chapter 7 सिकतासेतुः

