NCERT Solutions for Class 9 Sanskrit Chapter 9 पर्यावरणम्
प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) मानवः कुत्र सुरक्षितः तिष्ठति?
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
(ग) आर्षवचनं किमस्ति?
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्त:?
(ङ) लोकरक्षा कया सम्भवति?
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:
(क) पर्यावरणकुक्षौ
(ख) वने
(ग) धर्मो रक्षति रक्षितः
(घ) धर्मस्य
(ङ) प्रकृतिरक्षया
(च) मातृगर्भ
(छ) प्राणिनाम्
प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते किं भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
(क) पृथ्वी, जलं तेजः, वायुः आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(ग) पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याः च जायन्ते।
(घ) वृक्षारोपणम् कृत्वा, विषाक्तं जलं नद्याम् न पातथित्वा ध्वनिप्रदूषणं च न कृत्वा अस्माभिः पर्यावरणस्य .. रक्षा करणीया।।
(ङ) प्रकृतिरक्षया एव लोकरक्षा संभवति।
(च) परिष्कृतम् पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्री च ददाति।
प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददाति।
(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
प्रश्नाः
(क) के निर्विवेकं छिद्यन्ते?
(ख) कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किम् प्रददाति?
(घ) अजातश्शिशुः कस्मिन् सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?
प्रश्नः 4.
उदाहरणमनुसृत्य पदरचनां कुरुत
(क) यथा- जले चरन्ति इति – जलचराः
स्थले चरन्ति इति – ……….
निशायां चरन्ति इति – ……….
व्योम्नि चरन्ति इति – ……….
गिरौ चरन्ति इति – ……….
भूमौ चरन्ति इति – ……….
उत्तर:
स्थले चरन्ति इति – स्थलचराः
निशायां चरन्ति इति – निशाचराः
व्योम्नि चरन्ति इति – व्योमचराः
गिरौ चरन्ति इति – गिरिचराः
भूमौ चरन्ति इति – भूचराः
(ख) यथा- न पेयम् इति – अपेयम्
न वृष्टि इति – ……….
न सुखम् इति – ……….
न भावः इति – ……….
न पूर्णः इति – ……….
उत्तर:
न वृष्टि इति – अनावृष्टि
न सुखम् इति – असुखम्
न भावः इति – अभावः
न पूर्णः इति – अपूर्णः
प्रश्नः 5.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत
यथा- वि + कृ + क्तिन् = विकृतिः
(क) प्र + गम् + क्तिन् = ………..
(ख) दृश् + क्तिन् = ………..
(ग) गम् + क्तिन् = ………..
(घ) मन् + क्तिन् = ………..
(ङ) शम् + क्तिन् = ………..
(च) भी + क्तिन् = ………..
(छ) जन् + क्तिन् = ………..
(ज) भज् + क्तिन् = ………..
(झ) नी + क्तिन् = ………..
उत्तर:
प्र + गम् + क्तिन् = प्रगति:
दृश् + क्तिन् = दृष्टि:
गम् + क्तिन् = गति:
मन् + क्तिन् = मतिः
शम् + क्तिन् = शान्तिः
भी + क्तिन् = भीतिः
जन् + क्तिन् = जातिः
भज् + क्तिन् = भक्तिः
नी + क्तिन् = नीतिः
प्रश्न: 6.
निर्देशानुसारं परिवर्तयत यथा- स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:
(क) सन्तप्तानाम मानवानाम मङगलं कतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकम् छिद्यते।
(घ) गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।
(ङ) सरितः निर्मलं जलं प्रयच्छन्ति।
(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क) ……………
(ख) ……………
(ग) ……………
(घ) ……………
(ङ) ……………
उत्तर:
(क) अहम् पर्यावरणरक्षणाय कृतसंकल्पः अस्मि।
(ख) एतर्थं स्थाने स्थाने वृक्षाः रोपणीयाः।
(ग) वृक्षकर्तनं रोद्धव्यम्।
(घ) ‘जलम् एव जीवनम्’ अतः जलसंरक्षणम् अपि कर्त्तव्यम्।
(ङ) पर्यावरणरक्षणाय जनजागरणम् अपि करणीयम्।
प्रश्नः 7.
उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत यथा- संरक्षणाय
उत्तर:
(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत
यथा- तेजोवायुः – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
(i) पत्रपुष्पे — ……………
(ii) लतावृक्षौ — ……………
(iii) पशुपक्षी — ……………
(iv) कीटपतङ्गौ — ……………
उत्तर:
(i) पत्रम् च पुष्पम् च
(ii) लता च वृक्षः च
(iii) पशुः च पक्षी च
(iv) कीटः च पतङ्गः च
NCERT Solutions for Class 9 Sanskrit Chapter 9 पर्यावरणम्

