NCERT Solutions for Class 9 Sanskrit Chapter 8 जटायोः शौर्यम्
प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर:
(क) सीता
(ख) जटायुम् / गृध्रम्।
(ग) शुभाम्
(घ) तीक्ष्णनखाभ्याम्
(ङ) दश
प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) “जटायो! पश्य” इति का वदति?
(ख) जटायुः रावणं किं कथयति?
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
(ङ) जटायुः केन वामबाहु दंशति?
उत्तर:
(क) “जटायो! पश्य” इति वैदेही (सीता) वदति।
(ख) जटायुः रावणं कथयति यत् परस्त्रीस्पर्शात् नीचां मतिं निवर्तय धीरः तत् न समाचरेत् यत् अस्य परः विर्गहयेत्।
(ग) क्रोधवशात् रावणः वैदेहीं वामेन अङ्केन संपरिष्वज्य जटायुं तलेन आशु अभिजघान।
(घ) पतगेश्वरः रावणस्य मुक्तामणिविभूषितम् चापं सशरं बभञ्ज।
(ङ) जटायुः तुण्डेन वामबाहु दंशति।
प्रश्न 3.
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत
यथा- गुण + णिनि — गुणिन् (गुणी)
दान + णिनि — दानिन् (दानी)
(क) कवच + णिनि — ……………
(ख) शर + णिनि — ……………
(ग) कुशल + णिनि — ……………
(घ) धन + णिनि — ……………
(ङ) दण्ड + णिनि — ……………
उत्तर:
(क) कवच + णिनि — कवचिन् (कवची)
(ख) शर + णिनि — शरिन् (शरी)
(ग) कुशल + णिनि — कुशलिन् (कुशली)
(घ) धन + णिनि — धनिन् (धनी)
(ङ) दण्ड + णिनि — दण्डिन् (दण्डी)
(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः, पतगेश्वरः, सरथः, कवची, शरी
यथा —
रावणः — जटायुः
युवा — वृद्धः
………….. …………
………….. …………
उत्तर:
प्रश्न: 4.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत-
‘क’ — ‘ख’
कवची — अपतत्
आशु — पक्षिश्रेष्ठः
विरथः — पृथिव्याम्
पपात — कवचधारी
भुवि — शीघ्रम्
पतगसत्तमः — रथविहीनः
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
कवची — कवचधार
आशु — शीघ्रम्
विरथः — रथविहीनः
पपात — अपतत्
भुवि — पृथिव्याम्
पतगसत्तमः — पक्षिश्रेष्ठः
प्रश्न: 5.
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
मन्दम् पुण्यकर्मणा हसन्ती अनार्य अनतिक्रम्य देवेन्द्रेण प्रशंसेत् दक्षिणेन युवा
पदानि — विलोमशब्दाः
(क) विलपन्ती — ……………
(ख) आर्य — ……………
(ग) राक्षसेन्द्रेण — ……………
(घ) पापकर्मणा — ……………
(ङ) क्षिप्रम् — ……………
(च) विगर्हयेत् — ……………
(छ) वृद्धः — ……………
(ज) वामेन — ……………
(झ) अतिक्रम्य — ……………
उत्तर:
पदानि — विलोमशब्दाः
(क) विलपन्ती — हसन्ती
(ख) आर्य — अनार्य
(ग) राक्षसेन्द्रेण — देवेन्द्रेण
(घ) पापकर्मणा — पुण्यकर्मणा
(ङ) क्षिप्रम् — मन्दम्
(च) विगर्हयेत् — प्रशंसेत्
(छ) वृद्धः — युवा
(ज) वामेन — दक्षिणेन
(झ) अतिक्रम्य — अनतिक्रम्य
प्रश्न: 6.
(अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत
(क) शुभाम् — ………………
(ख) खगाधिपः — ………………
(ग) हतसारथिः — ………………
(घ) वामेन — ………………
(ङ) कवची — ………………
उत्तर:
(क) शुभाम्- वृक्षे स्थितः जटायुः रावणं शुभाम् गिरम् अकथयत्।
(ख) खगाधिपः- खगाधिपः जटायुः विलपन्ती वैदेहीं अपश्यत्।
(ग) हतसारथिः- हतसारथिः रावणः भूमौ अपतत्।
(घ) वामेन- वामेन हस्तेन दानं न करणीयम्।
(ङ) कवची- रावणः कवची शरी च आसीत्।
(आ) उदाहरणमनुसृत्य समस्त पद रचयत
यथा- त्रयाणां लोकानां समाहारः — त्रिलोकी
(क) पञ्चानां वटानां समाहारः — ……………
(ख) सप्तानां पदानां समाहारः — ……………
(ग) अष्टानां भुजानां समाहारः — ……………
(घ) चतुर्णां मुखानां समाहारः — ……………
उत्तर:
समास विग्रह — समस्त पद
(क) पञ्चानां वटानां समाहारः — पञ्चवटी
(ख) सप्तानां पदानां समाहारः — सप्तपदी
(ग) अष्टानां भुजानां समाहारः — अष्टभुजम्
(घ) चतुर्णा मुखानां समाहारः — चतुर्मुखम्
NCERT Solutions for Class 9 Sanskrit Chapter 8 जटायोः शौर्यम्

